(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.52. अध्यायः 052
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण अर्जुनप्रतापानुवर्णनपूर्वकं परिशोचनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

5-52-0(33845)
धृतराष्ट्र उवाच। 5-52-0x(3559)
यस्य वै नानृता वाचः कदाचिदनुशुश्रुम ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥ 5-52-1(33846)
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः।
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥ 5-52-2(33847)
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः।
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥ 5-52-3(33848)
द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ॥ 5-52-4(33849)
महान्स्यात्संशयो लोके न त्वस्ति विजयो मम।
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ॥ 5-52-5(33850)
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ।
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥ 5-52-6(33851)
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥ 5-52-7(33852)
वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च।
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते ॥ 5-52-8(33853)
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ।
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च।
एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ॥ 5-52-9(33854)
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्।
जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम् ॥ 5-52-10(33855)
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि।
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥ 5-52-11(33856)
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः।
युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम ॥ 5-52-12(33857)
नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः ।
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः । 5-52-13(33858)
शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय।
न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ॥ 5-52-14(33859)
अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः ।
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥ 5-52-15(33860)
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ।
गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी ॥ 5-52-16(33861)
अपि सा रथघोषेण भयार्ता सव्यसाचिनः ।
वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ॥ 5-52-17(33862)
यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन्।
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥ 5-52-18(33863)
यदोद्वमन्निशितान्बाणसङ्घां-
स्तानाततायी समरे किरीटी।
सृष्टोऽन्तकः सर्वहरो विधात्रा
यथा भवेत्तद्वदपारणीयः ॥ 5-52-19(33864)
यदा हयभीक्ष्णं सुबुहून्प्रकारान्
श्रोतास्मि तानावसथे कुरूणाम्।
तेषां समन्ताच्च तथा रणाग्रे
क्षयः किलायं भरतानुपैति ॥ ॥ 5-52-20(33865)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि द्विपञ्चाशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-52-5 प्रमादी अन्ते विद्यां न स्मरिष्यतीति भावः ॥ 5-52-14 अस्ताः क्षिप्ताः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.